अट्टालसुन्दराष्टकम्
ॐनमःशिवाय ।। अट्टालसुन्दराष्टकम् ।। कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् । कबलीकृतसंसारं कलयेट्टालसुन्दरम् ।।१।। कालकूटप्रभाजालकलंकीकृतकन्धरम् । कलाधरं कलामौळिं कलयेट्टालसुन्दरम् ।।२।। कालकालं कलातीतं कलावन्तं च निष्कलम् । कमलापतिसंस्तुत्यं कलयेट्टालसुन्दरम् ।।३।। कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् । कलिकल्मषदोषघ्नं कलयेट्टालसुन्दरम् ।।४।। कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् । कामशासनमीशानं कलयेट्टालसुन्दरम् ।।५।। सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च । रक्षितानि हतान्यन्ते कलयेट्टालसुन्दरम् ।।६।। स्वभक्तजनसंताप पापापद्मङ्गतत्परम् । कारणं सर्वजगतां कलयेट्टालसुन्दरम् ।।७।। कुलशेखरवंशोत्थभूपानां कुलदैवतम् । परिपूर्णं चिदानन्दं कलयेट्टालसुन्दरम् ।।८।। अट्टालवीरश्रीशंभोरष्टकं वरमिष्टदम् । पठतां शृण्वतां सद्यस्तनोतु परमांश्रियम् ।।९।। । इति अट्टालसुन्दराष्टकम् ।