अट्टालसुन्दराष्टकम्
ॐनमःशिवाय
।। अट्टालसुन्दराष्टकम् ।।
कल्याणाचलकोदण्डकान्तदोर्दण्डमण्डितम् ।
कबलीकृतसंसारं कलयेट्टालसुन्दरम् ।।१।।
कालकूटप्रभाजालकलंकीकृतकन्धरम् ।
कलाधरं कलामौळिं कलयेट्टालसुन्दरम् ।।२।।
कालकालं कलातीतं कलावन्तं च निष्कलम् ।
कमलापतिसंस्तुत्यं कलयेट्टालसुन्दरम् ।।३।।
कान्तार्धं कमनीयाङ्गं करुणामृतसागरम् ।
कलिकल्मषदोषघ्नं कलयेट्टालसुन्दरम् ।।४।।
कदम्बकाननाधीशं कांक्षितार्थसुरद्रुमम् ।
कामशासनमीशानं कलयेट्टालसुन्दरम् ।।५।।
सृष्टानि मायया येन ब्रह्माण्डानि बहूनि च ।
रक्षितानि हतान्यन्ते कलयेट्टालसुन्दरम् ।।६।।
Comments
Post a Comment