वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः
प्रथमं भारती नाम द्वितीयं च सरस्वती। तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥ पञ्चमं जगती ख्याता षष्ठं वागीश्वरी तथा। सप्तमं कुमुदी प्रोक्ता अष्टमं ब्रह्मचारिणी॥ प्रथमं भारती नाम द्वितीयं च सरस्वती। तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥ पञ्चमं जगती ख्याता षष्ठं वागीश्वरी तथा। सप्तमं कुमुदी प्रोक्ता अष्टमं ब्रह्मचारिणी॥ नवमं बुद्धिदात्री च दशमं वरदायिनी। एकादशं चन्द्रकान्तिर्द्वादशं भुवनेश्वरी॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः। जिह्वाग्रे वसते नित्यं ब्रह्मरूपा सरस्वती ॥ दिन की तीनों सन्ध्याओं में, इनका पाठ करने से भगवती सरस्वती उस मनुष्य के जिह्वाग्र पर विराजमान हो जाती हैं। सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम्॥ कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम्। वह्निशुद्धां शुकाधानां वीणापुस्तकधारिणीम् ॥ रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम्। सुपूजिता सुरगणैर्ब्रह्मविष्णुशिवादिभिः॥ वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः।