निर्वाण मंजरी

                                              अहं नामरो नैव मर्त्यो न दैत्यो

     न गन्धर्वयक्षः पिशाचः प्रभेदः ।
पुमान्नैव न स्त्री तथा नैव षण्ढः
     प्रकृष्टः  प्रकाशस्वरूपः शिवोऽहम् ॥ १॥
न मैं अमर हूं, न मर्त्य हूं और न ही दैत्य;
न मैं गन्धर्व, यक्ष अथवा कोई पिशाच हूं।
न मैं पुरुष हूं, न स्त्री और न ही नपुंसक,
मैं तो प्रकाश स्वरूप शिव ही हूं॥
अहं नैव बालो युवा नैव वृद्धो
     न वर्णी न च ब्रह्मचारी गृहस्थः ।
वनस्थोऽपि नाहं न संन्यस्तधर्मा
     जगज्जन्मनाशैकहेतुः शिवोऽहम् ॥ २॥

अहं नैव मन्ता न गन्ता न वक्ता
     न कर्ता न भोक्ता न मुक्ताश्रमस्थः ।
यथाहं मनोवृत्तिभेदस्वरूप-
     स्तथा सर्ववृतिप्रदीपः शिवोऽहम् ॥ ३॥

यदन्तर्बहिर्व्यापकं नित्यशुद्धं
     यदेकं सदा सच्चिदानन्दकन्दम् ।
यतः स्थूलसूक्ष्मप्रपञ्चस्य भानं
     यतस्तत्प्रसुतिस्तदेवाहमस्मि ॥ ४॥

यतः कालमृत्युर्बिभेति प्रकामं
     यतश्चित्तबुद्धीन्द्रियाणां विलासः ।
हरिब्रह्मरुद्रेन्द्रचन्द्रादिनां
     प्रकाशो यतः स्यात्तदेवाहमस्मि ॥ ५॥

यदाकाशवत्सर्वगं शान्तरूपं
     परं ज्योतिराकारशून्यं वरेण्यम् ।
यदाद्यन्तशून्यं परं शङ्कराख्यं
     यदन्तर्विभाव्यं तदेवाहमस्मि ॥ ६॥

इति श्रीमच्छङ्कराचार्यकृता निर्वाण्मञ्जरी समाप्ता ॥

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

राम नाम का महत्व(स्वामीरामसुखदास महाराज)