कालीस्तोत्रं परशुरामकृतं

कालीस्तोत्रं परशुरामकृतं:-

नमः शङ्करकान्तायै सारायै ते नमो नमः।
नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः॥१॥

नमो नमो जगद्धात्र्यै जगत्कर्त्र्यै नमो नमः।
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः॥२॥

प्रसीद जगतां मातःसृष्टिसंहारकारिणि।
त्वत्पादौ शरणं यामि प्रतिज्ञां सार्थिकां कुरु।।३।। 

त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः।
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥४॥

युष्माभिः शिवलोके च मह्यं दत्तो वरः पुरा।
तं वरं सफलं कर्तुं त्वमर्हसि वरानने॥५॥

रेणुकेयस्तवं श्रुत्वा प्रसन्नाऽभवदम्बिका। वर जामदग्न्यस्तवं
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥६॥
एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्।
महाभयात्समुत्तीर्णः स भवेदेव लीलया॥७॥

स पूजितश्च त्रैलोक्ये तत्रैव विजयी भवेत्।
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः॥८॥

इति श्रीब्रह्मवैवर्तपुराणे गणेशखण्डे षट्त्रिंशोऽध्यायान्तर्गतम् श्रीपरशुरामकृतं कालीस्तोत्रं सम्पूर्णम् ॥

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

राम नाम का महत्व(स्वामीरामसुखदास महाराज)