सौन्दर्यलहरि स्तोत्रं(Soundarya Lahari Lyrics in English)
सौन्दर्यलहरि स्तोत्रं
भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि
प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥
तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ 2 ॥
अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी
जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ।
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ 3 ॥
त्वदन्यः पाणिभया-मभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥
हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ।
स्मरोஉपि त्वां नत्वा रतिनयन-लेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरु-दायोधन-रथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥
क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता
परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना ।
धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ 7 ॥
सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते
मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ।
शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम्
भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ॥ 8 ॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।
मनोஉपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ 9 ॥
सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः
प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः।
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ।
यदालोकौत्सुक्या-दमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ 12 ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतित-मनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ 13 ॥
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥
शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥
कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी-
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥
सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि-
र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ 17 ॥
तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥
मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥
किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्तधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥
तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं
निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् ।
महापद्मातव्यां मृदित-मलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ॥ 21 ॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥
त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ।
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव-
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥
त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ।
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ 25 ॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा
महासंहारेஉस्मिन् विहरति सति त्वत्पति रसौ ॥ 26 ॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ।
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ 27 ॥
सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं
विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः ।
करालं यत् क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ॥ 28 ॥
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् ।
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ 29 ॥
स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो
महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ 30 ॥
चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना-
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ॥ 31 ॥
शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ।
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥
स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ।
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ॥ 33 ॥
शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ।
अतः शेषः शेषीत्यय-मुभय-साधारणतया
स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ॥ 34 ॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥
तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं
परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता ।
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये
निरालोके உलोके निवसति हि भालोक-भुवने ॥ 36 ॥
विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे
विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥
समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ 38 ॥
तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महसि क्रोध-कलिते
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ 39 ॥
तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया
स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैक-शरणं
निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ॥ 40 ॥
तवाधारे मूले सह समयया लास्यपरया
नवात्मान मन्ये नवरस-महाताण्डव-नटम् ।
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ 41 ॥
द्वितीय भागः – सौन्दर्य लहरी
गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥
धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ॥ 43 ॥
तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी
परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः।
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ॥ 44 ॥
अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ॥ 45 ॥
ललाटं लावण्य द्युति विमल-माभाति तव यत्
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राका-हिमकरः ॥ 46 ॥
भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः
प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे ॥ 47 ॥
अहः सूते सव्य तव नयन-मर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः
समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् ॥ 48 ॥
विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराஉஉभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ॥ 49 ॥
कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ।
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ॥ 50 ॥
शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥ 51 ॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ।
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः॥ 52 ॥
विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान्
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ॥ 53 ॥
पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवमुम्
त्रयाणां तीर्थाना-मुपनयसि सम्भेद-मनघम् ॥ 54 ॥
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति
तवेत्याहुः सन्तो धरणिधर-राजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः
परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृशः ॥ 55 ॥
तवापर्णे कर्णे जपनयन पैशुन्य चकिता
निलीयन्ते तोये नियत मनिमेषाः शफरिकाः ।
इयं च श्री-र्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति॥ 56 ॥
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकर निपातो हिमकरः ॥ 57 ॥
अरालं ते पालीयुगल-मगराजन्यतनये
न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् ।
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन्
अपाङ्ग व्यासङ्गो दिशति शरसन्धान धिषणाम् ॥ 58 ॥
स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥
सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ।
चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणो
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ॥ 60 ॥
असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ।
वहत्यन्तर्मुक्ताः शिशिरकर-निश्वास-गलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥
प्रकृत्याஉஉरक्ताया-स्तव सुदति दन्दच्छदरुचेः
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्ब-प्रतिफलन-रागा-दरुणितं
तुलामध्रारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणा-मासी-दतिरसतया चञ्चु-जडिमा ।
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया ॥ 63 ॥
अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥
रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकला
विलीयन्ते मातस्तव वदनताम्बूल-कबलाः ॥ 65 ॥
विपञ्च्या गायन्ती विविध-मपदानं पशुपते-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ॥ 66 ॥
करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते
कथङ्करं ब्रूम-स्तव चुबुकमोपम्यरहितम् ॥ 67 ॥
भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ।
स्वतः श्वेता काला गरु बहुल-जम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥
गले रेखास्तिस्रो गति गमक गीतैक निपुणे
विवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ।
विराजन्ते नानाविध-मधुर-रागाकर-भुवां
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ॥ 69 ॥
मृणाली-मृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपोः
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ॥ 70 ॥
नखाना-मुद्योतै-र्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ॥ 71 ॥
समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ।
यदालोक्याशङ्काकुलित हृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ 72 ॥
अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ
न सन्देहस्पन्दो नगपति पताके मनसि नः ।
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ ॥ 73 ॥
वहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितां
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयः पारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत्
कवीनां प्रौढाना मजनि कमनीयः कवयिता ॥ 75 ॥
हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङो मनसिजः ।
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥
यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ।
विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥
स्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लता
कलावालं कुण्डं कुसुमशर तेजो-हुतभुजः ।
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ॥ 78 ॥
निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥
कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ
कषन्तौ-दौर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात्
नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्ब-प्राग्भारः स्थगयति सघुत्वं नयति च ॥ 81 ॥
करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञे जानुभ्यां विबुध करिकुम्भ द्वयमसि ॥ 82 ॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत ।
यदग्रे दृस्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ॥ 83 ॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ।
ययओः पाद्यं पाथः पशुपति जटाजूट तटिनी
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ॥ 84 ॥
नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूना-मीशानः प्रमदवन-कङ्केलितरवे ॥ 85 ॥
मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तः शल्यं दहनकृत मुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ॥ 86 ॥
हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ
निशायां निद्राणं निशि-चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनां
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ॥ 87 ॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ।
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥
नखै-र्नाकस्त्रीणां करकमल-सङ्कोच-शशिभिः
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ॥ 89 ॥
ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति ।
तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ॥ 90 ॥
पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥
गतास्ते मञ्चत्वं द्रुहिण हरि रुद्रेश्वर भृतः
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलन रागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥
अराला केशेषु प्रकृति सरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये
जगत्त्रतुं शम्भो-र्जयति करुणा काचिदरुणा ॥ 93 ॥
कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं
कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥
पुरारन्ते-रन्तः पुरमसि तत-स्त्वचरणयोः
सपर्या-मर्यादा तरलकरणाना-मसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तः स्थितिभि-रणिमाद्याभि-रमराः ॥ 95 ॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीना-मचरमे
कुचभ्या-मासङ्गः कुरवक-तरो-रप्यसुलभः ॥ 96 ॥
गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥
कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविता0कारणतया
कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम् ॥ 98 ॥
सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥
प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः
सुधासूते-श्चन्द्रोपल-जललवै-रघ्यरचना ।
स्वकीयैरम्भोभिः सलिल-निधि-सौहित्यकरणं
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ॥ 100 ॥
सौन्दयलहरि मुख्यस्तोत्रं संवार्तदायकम् ।
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ॥
सौन्दर्यलहरि स्तोत्रं सम्पूर्णं
Soundarya Lahari Meaning:
Lord Shiva, only becomes able.
To do the creation in this world along with Shakthi
Without her, Even an inch he cannot move,
And so how can, one who does not do good deeds,
Or one who does not sing your praise,
Become adequate to worship you
Oh , goddess mine, Who is worshipped by the trinity. ॥ 1 ॥
Lord Brahma, the creator of yore,
Selects dust from your feet,
And creates he this world,
The great Adisesha* with his thousand heads,
Somehow carries dust of your feet,
With effort great,
And the great Lord Rudra,
Takes it and powders it nice,
And uses it as the holy ash. ॥ 2 ॥
The dust under your feet, Oh Goddess great,
Is like the city of the rising sun,
That removes all darkness, unfortunate,
From the mind of the poor ignorant one,
Is like the honey that flows,
From the flower bunch of vital action,
To the slow witted one,
Is like the heap of wish giving gems,
To the poorest of men,
And is like the teeth of Lord Vishnu
In the form of Varaha,
Who brought to surface,
The mother earth,
To those drowned in this sea of birth. ॥ 3 ॥
Oh, She who is a refuge to all this world,
All gods except your mother,
Give refuge and grants wishes,
Only by hand.
But only your mother
Never show the world in detail,
The boons and refuge that you can give,
For even your holy feet will suffice,
To remove fear forever,
And grant boons much more than asked. ॥ 4 ॥
You who grant all the good things,
To those who bow at your feet,
Was worshipped by the Lord Vishnu,
Who took the pretty lovable feminine form,
And could move the mind of he who burnt the cities,
And make him fall in love with him.
And the God of love, Manmatha,
Took the form which is like nectar,
Drunk by the eyes by Rathi his wife,
After venerating you,
Was able to create passion,
Even in the mind of Sages the great. ॥ 5 ॥
Oh, daughter of the mountain of ice,
With a bow made of flowers,
Bowstring made of honey bees,
Five arrows made of only tender flowers,
With spring as his minister,
And riding on the chariot of breeze from Malaya mountains
The god of love who does not have a body,
Gets the sideways glance of your holy eyes,
And is able to win all the world alone. ॥ 6 ॥
With a golden belt,
Adorned by tiny tingling bells,
Slightly bent by breasts like the two frontal globes
Of an elephant fine,
With a thin pretty form,
And with a face like the autumn moon,
Holding in her hands,
A bow of sugar cane, arrows made of flowers,
And the noose and goad,
She who has the wonderful form,
Of the ego of the God who burnt the three cities,
Should please come and appear before us. ॥ 7 ॥
In the middle of the sea of nectar,
In the isle of precious gems,
Which is surrounded by wish giving Kalpaga trees,
In the garden Kadamba trees,
In the house of the gem of thought,
On the all holy seat of the lap of the great God Shiva,
Sits she who is like a tide
In the sea of happiness of ultimate truth,
And is worshipped by only by few select holy men. ॥ 8 ॥
Oh Goddess mine,
You live in seclusion with your consort,
In the lotus with thousand petals,
Reached after breaking through the micro ways,
Of the power of the earth in Mooladhara,
Of the power of the water of Mani poora,
Of the power of the fire of Swadhishtana,
Of the fire of air in the heart,
And of the power of ether in between the eyelids* ॥ 9 ॥
Using the nectar that flows in between your feet,
To drench all the nerves of the body,
And descending from the moon with nectar like rays,
Reaching back to your place,
And coiling your body into a ring like serpent,
You sleep in the Kula Kunda* with a hole in the middle. ॥ 10 ॥
With four wheels of our Lord Shiva,
And with five different wheels of you, my mother,
Which are the real basis of this world,
Your house of the holy wheel,
Has four different parts,
Of eight and sixteen petals,
Three different circles,
And three different lines,
Making a total of forty four angles*. ॥ 11 ॥
Oh, daughter of ice mountain,
Even the creator who leads,
An array of great poets,
Fails to describe your sublime beauty.
The heavenly maidens pretty,
With a wish to see your pristine loveliness,
Try to see you through the eyes your Lord, the great Shiva,
And do penance to him and reach him through their mind. ॥ 12 ॥
Comments
Post a Comment