द्वादश पञ्जरिका स्तोत्र / Dwadash Panjarika Stotra

द्वादश पञ्जरिका स्तोत्र / Dwadash Panjarika Stotra

मूढ़ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।

यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।1।।

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढ़मते ।। (ध्रुवपदम्)

अर्थमनर्थं भावय नित्यं नास्ति तत: सुखलेश: सत्यम् ।

पुत्रादपि धनभाजां भीति: सर्वत्रैषा विहिता नीति: । भज. ।।2।।

का ते कांता कस्ते पुत्र: संसारोऽयमतीव विचित्र: ।

कस्य त्वं क: कुत आयातस्तत्त्वं चिन्तय यदिदं भ्रात: । भज. ।।3।।

मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल: सर्वम् ।

मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा । भज. ।।4।।

कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम् ।

आत्मज्ञानविहीना मूढास्ते पच्यन्ते नरकनिगूढ़ा: । भज. ।।5।।

सुरमन्दिरतरुमूलनिवास: शय्या भूतलमजिनं वास: ।

सर्वपरिग्रहभोगत्याग: कस्य सुखं न करोति विराग: । भज. ।।6।।

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसंधौ ।

भव समचित्त: सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् । भज. ।।7।।

त्वयि मयि चान्यत्रैको विष्णुव्र्यर्थं कुप्यसि सर्वसहिष्णु: ।

सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्स्रज भेदाज्ञानम् । भज. ।।8।।

प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् ।

जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् । भज. ।।9।।

नलिनीदलगतसलिलं तरलं तद्वज्जीवितमतिशय चपलम् ।

विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् । भज. ।।10।।

का तेऽष्टादशदेशे चिंता वातुल तव किं नास्ति नियन्ता ।

यस्त्वां हस्ते सुदृढ़निबद्धं बोधयति प्रभवादिविरुद्धम् । भज. ।।11।।

गुरुचरणाम्बुजनिर्भरभक्त: संसारादचिराद्भव मुक्त: ।

सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजह्रदयस्थं देवम् । भज. ।।12।।

द्वादशपंजरिकामय एष: शिष्याणां कथितो ह्रुपदेश: ।

येषां चित्ते नैव विवेकस्ते पच्यन्ते नरकमनेकम् । भज. ।।13।।

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

ब्राह्मण के नौ गुण क्या होते हैं