श्रीमृत्युञ्जयध्यानम्

#श्रीमृत्युञ्जयध्यानम्

वन्दे मृत्युञ्जयं साम्ब नीलकण्ठं चतुर्भुजम् ।
चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ।१।

बिम्बाधरं विशालाक्षं चन्द्रालंकृतमस्तकम् ।
अक्षमालाम्बरधरं वरदं चाभयप्रदम् ।२।

महार्हकुण्डलाभूषं हारालकृतवक्षसम् ।
भस्मोद्धूलितसर्वाङ्गं फालनेत्रविराजितम् ।३। 
व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् ।
पार्वत्या सहितं वन्दे सर्वाभीष्टवरप्रदम् ।४।

    ।। इति श्रीमृत्युञ्जयध्यानम् ।।
🌼🌼

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

राम नाम का महत्व(स्वामीरामसुखदास महाराज)