देवकीकृतम् विष्णुस्तोत्रम्
।। देवकीकृतम् विष्णुस्तोत्रम् ।।
🪷
जगतामीश्वरेशेश ज्ञानज्ञेयभवाव्यय ।
समस्तदेवतादेव वासुदेव नमोस्तुते ।।
प्रधानपुंसोरजयोर्यः कारणमकारणम् ।
अविशेष्यमजं रूपं तव तस्मै नमोस्तुते ।।
त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः ।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ।।
प्रसीद देव देवानामरिशातन वामन ।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ।।
।। श्रीविष्णुधर्मेषु नवतितमोध्यायान्तर्गतं देवकीकृतं विष्णुस्तोत्रं सम्पूर्णम् ।।
Comments
Post a Comment