श्रीकृष्णजन्मस्तुतिः
।। श्रीकृष्णजन्मस्तुतिः ।।
रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्मज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ।।१।।
नष्टे लोके द्विपरार्धावसाने
महाभूतेष्वादिभूतं गतेषु ।
व्यक्ते व्यक्तं कालवेगेन याते
भवानेकः शिष्यते शेषसंज्ञः ।।२।।
योयं कालस्तस्य तेव्यक्तबन्धोश्चेष्टामाहुश्चेष्टते
येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयांस्तं
त्वीशानं क्षेमधाम प्रपद्ये ।।३।।
मर्त्यो मृत्युव्यालभीतः
पलायन्सर्वांल्लोकान्निर्वृतिं नाध्यगच्छत् ।
त्वत्पादाब्जं पाप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युरस्मादपैति ।।४।।
इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता
देवकीकृता स्तुतिः
🏵️🏵️
ॐकृष्णायनमः
Comments
Post a Comment