सरस्वती द्वादशनाम स्तोत्रम्
सरस्वती द्वादशनाम स्तोत्रम् :--
सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् ।
हंसवाहसमायुक्तां विद्यादानकरीं मम॥ १॥
प्रथमं भारती नाम द्वितीयं च सरस्वती।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥२॥
पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा।
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी॥ ३॥
नवमं बुद्धिदात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४॥
ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ५॥
II इतिश्री सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम् II
Comments
Post a Comment