महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्
|| महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ||🙏
सुरक्तपद्मपत्राभकरपादतले शुभे।
सरत्नाङ्गदकेयूरकाङ्चीनूपुरशोभिते॥
यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्ज्वले।
माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते॥
ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे।
पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे॥
माँ लक्ष्मी
Comments
Post a Comment