लक्ष्मीभ्यो नमः
विद्या लक्ष्मि नमस्तेऽस्तु ब्रह्म विद्या स्वरूपिणि।
विद्यां देहि कलां देहि सर्व कामांश्च देहि मे।।
पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये।
जयमातर्महालक्ष्मि संसारार्णवतारिणि॥
महालक्ष्मिनमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे॥
लक्ष्मीभ्यो नमः
Comments
Post a Comment