श्रीपरशुरामस्तोत्रं

परशुरामस्तोत्रम्

%३९ कराभ्यां परशुं चापं दधानं रेणुकात्मजम् । जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ॥ १॥ नमामि भार्गवं रामं रेणुकाचित्तनन्दनम् । मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥ २॥ भयार्तस्वजनत्राणतत्परं धर्मतत्परम् । गतगर्वप्रियं शूरंं जमदग्निसुतं मतम् ॥ ३॥ वशीकृतमहादेवं दृप्तभूपकुलान्तकम् । तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ॥ ४॥ परशुं दक्षिणे हस्ते वामे च दधतं धनुः । रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ॥ ५॥ शुद्धं बुद्धं महाप्रज्ञामण्डितं रणपण्डितम् । रामं श्रीदत्तकरुणाभाजनं विप्ररञ्जनम् ॥ ६॥ मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनम् । य एतानि जपेद्रामनामानि स कृती भवेत् ॥ ७॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीपरशुरामस्तोत्रं सम्पूर्णम् ।

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

ब्राह्मण के नौ गुण क्या होते हैं